Sukta 7.91
या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते । आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥
या वां॑ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा॑रा॒: सच॑न्ते । आभि॑र्यातं सुवि॒दत्रा॑भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्व॑: ॥
yā́ vāṃ śatáṃ niyúto yā́ḥ sahásram índravāyū viśvávārā́ḥ sácante | ā́bhir yātam suvidátrābhir arvā́k pā́taṃ narā pratibhṛtásya mádhvaḥ ||
Those (yoked) forces of yours—hundreds and thousands—O Indra and Vāyu, that are rich in every desirable plenitude, gather to you. With them come down to us with clear powers of right finding; O two strong ones, drink of the honeyed delight that is offered and borne towards you.
या । वा॒म् । श॒तम् । नि॒ऽयुतः॑ । याः । स॒हस्र॑म् । इन्द्र॑वायू॒ इति॑ । वि॒श्वऽवा॑राः । सच॑न्ते । आभिः॑ । या॒त॒म् । सु॒ऽवि॒दत्रा॑भिः । अ॒र्वाक् । पा॒तम् । न॒रा॒ । प्रति॑ऽभृतस्य । मध्वः॑ ॥या । वाम् । शतम् । नियुतः । याः । सहस्रम् । इन्द्रवायू इति । विश्ववाराः । सचन्ते । आभिः । यातम् । सुविदत्राभिः । अर्वाक् । पातम् । नरा । प्रतिभृतस्य । मध्वः ॥yā | vām | śatam | ni-yutaḥ | yāḥ | sahasram | indravāyūiti | viśva-vārāḥ | sacante | ābhiḥ | yātam | su-vidatrābhiḥ | arvāk | pātam | narā | prati-bhṛtasya | madhvaḥ