Sukta 7.91
नियुवाना नियुतः स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक् । इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥
नि॒यु॒वा॒ना नि॒युत॑: स्पा॒र्हवी॑रा॒ इन्द्र॑वायू स॒रथं॑ यातम॒र्वाक् । इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ॥
niyuvānā́ niyútaḥ spārhávīrā índravāyū saráthaṃ yātam arvā́k | idáṃ hí vāṃ prábhṛtaṃ mádhvo ágram ádha prīṇānā́ ví mumuktam asmè ||
Young and ever-renewing, with your yoked forces, rich in desirable hero-power—O Indra–Vāyu, come together in one chariot towards us. For this first essence of sweetness has been brought for you; then, satisfied, release for us the widenings and liberations within.
नि॒ऽयु॒वा॒ना । नि॒ऽयुतः॑ । स्पा॒र्हऽवी॑राः । इन्द्र॑वायू॒ इति॑ । स॒ऽरथ॑म् । या॒त॒म् । अ॒र्वाक् । इ॒दम् । हि । वा॒म् । प्रऽभृ॑तम् । मध्वः॑ । अग्र॑म् । अध॑ । प्री॒णा॒ना । वि । मु॒मु॒क्त॒म् । अ॒स्मे इति॑ ॥नियुवाना । नियुतः । स्पार्हवीराः । इन्द्रवायू इति । सरथम् । यातम् । अर्वाक् । इदम् । हि । वाम् । प्रभृतम् । मध्वः । अग्रम् । अध । प्रीणाना । वि । मुमुक्तम् । अस्मे इति ॥ni-yuvānā | ni-yutaḥ | spārha-vīrāḥ | indravāyūiti | sa-ratham | yātam | avārk | idam | hi | vām | pra-bhṛtam | madhvaḥ | agram | adha | prīṇānā | vi | mumuktam | asme iti