Sukta 7.91
अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः । वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥
अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः । वा॒ज॒यन्त॒: स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
árvanto na śrávaso bhíkṣamāṇā indrāvāyū suṣṭutíbhir vásiṣṭhāḥ | vājáyantaḥ svávase huvema yūyáṃ pāta svastíbhiḥ sádā naḥ ||
Like eager steeds seeking fame, we Vasiṣṭhas ask you with well-fashioned hymns, O Indra and Vāyu. Striving to win the plenitude of force for our own self-mastery, we call you; do you guard us always with your harmonies of well-being.
अर्व॑न्तः । न । श्रव॑सः । भिक्ष॑माणाः । इ॒न्द्र॒वा॒यू इति॑ । सु॒स्तु॒तिऽभिः॑ । वसि॑ष्ठाः । वा॒ज॒ऽयन्तः॑ । सु । अव॑से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥अर्वन्तः । न । श्रवसः । भिक्षमाणाः । इन्द्रवायू इति । सुस्तुतिभिः । वसिष्ठाः । वाजयन्तः । सु । अवसे । हुवेम । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥arvantaḥ | na | śravasaḥ | bhikṣamāṇāḥ | indravāyū iti | sustuti-bhiḥ | vasiṣṭhāḥ | vāja-yantaḥ | su | avase | huvema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ