Sukta 7.91
यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः । शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम् ॥
याव॒त्तर॑स्त॒न्वो॒३॒॑ याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या॑नाः । शुचिं॒ सोमं॑ शुचिपा पातम॒स्मे इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम् ॥
yā́vattáras tanvò yā́vad ójo yā́van náras cákṣasā dīdhyā́nāḥ | śúciṃ sómaṃ śucipā pātam asmè índravāyū sádatam bárhir idám ||
As far as the body can reach, as far as the force can extend, as far as the seekers can kindle by vision—drink here the pure Soma, O pure-drinkers. O Indra–Vāyu, sit down upon this seat of offering within us.
याव॑त् । तरः॑ । त॒न्वः॑ । याव॑त् । ओजः॑ । याव॑त् । नरः॑ । चक्ष॑सा । दीध्या॑नाः । शुचि॑म् । सोम॑म् । शु॒चि॒ऽपा॒ । पा॒त॒म् । अ॒स्मे इति॑ । इन्द्र॑वायू॒ इति॑ । सद॑तम् । ब॒र्हिः । आ । इ॒दम् ॥यावत् । तरः । तन्वः । यावत् । ओजः । यावत् । नरः । चक्षसा । दीध्यानाः । शुचिम् । सोमम् । शुचिपा । पातम् । अस्मे इति । इन्द्रवायू इति । सदतम् । बर्हिः । आ । इदम् ॥yāvat | taraḥ | tanvaḥ | yāvat | ojaḥ | yāvat | naraḥ | cakṣasā | dīdhyānāḥ | śuc im | somam | śuci-pā | pātam | asme iti | indravāyūiti | sadatam | barhiḥ | ā | idam