Sukta 7.91
पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः । ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥
पीवो॑अन्नाँ रयि॒वृध॑: सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑: स्वप॒त्यानि॑ चक्रुः ॥
pī́vo-annā́n rayivṛ́dhaḥ sumedhā́ḥ śvétáḥ siṣakti niyútām abhiśrī́ḥ | té vāyáve sámanaso ví tasthur víśven nárāḥ svapatyā́ni cakruḥ ||
Rich in food of force, increasers of plenitude, wise in understanding—the white splendour clings to the yoked energies. For Vāyu they stand firm, of one mind; these men have fashioned all acts of good mastery and true possession of the self.
पीवः॑ऽअन्नान् । र॒यि॒ऽवृधः॑ । सु॒ऽमे॒धाः । श्वे॒तः । सि॒ष॒क्ति॒ । नि॒ऽयुता॑म् । अ॒भि॒ऽश्रीः । ते । वा॒यवे॑ । सऽम॑नसः । वि । त॒स्थुः॒ । विश्वा॑ । इत् । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः॒ ॥पीवःअन्नान् । रयिवृधः । सुमेधाः । श्वेतः । सिषक्ति । नियुताम् । अभिश्रीः । ते । वायवे । समनसः । वि । तस्थुः । विश्वा । इत् । नरः । सुअपत्यानि । चक्रुः ॥pīvaḥ-annān | rayi-vṛdhaḥ | su-medhāḥ | śvetaḥ | siṣakti | ni-yutām | abhi-śrīḥ | te | vāyave | sa-manasaḥ | vi | tasthuḥ | viśvā | it | naraḥ | su-apatyāni | cakruḥ