Sukta 7.91
उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः । इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् ॥
उ॒शन्ता॑ दू॒ता न दभा॑य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः । इन्द्र॑वायू सुष्टु॒तिर्वा॑मिया॒ना मा॑र्डी॒कमी॑ट्टे सुवि॒तं च॒ नव्य॑म् ॥
uśántā dūtā́ ná dábhāya gopā́ mā́sāś ca pā́thaḥ śarádaś ca pūrvī́ḥ | índravāyū suṣṭutír vām iyānā́ mārḍīkám ī́ṭṭe suvitáṃ ca návyam ||
Desiring, like messengers, guarding so as not to fail, they traverse the months and the paths and the many former seasons. O Indra–Vāyu, the well-fashioned hymn that comes to you asks for your grace and for a new right-leading—fresh openings of the journey.
उशन्ता॑ । दू॒ता । न । दभा॑य । गो॒पा । मा॒सः । च॒ । पा॒थः । श॒रदः॑ । च॒ । पू॒र्वीः । इन्द्र॑वायू॒ इति॑ । सु॒ऽस्तु॒तिः । वा॒म् । इ॒या॒ना । मा॒र्डी॒कम् । ई॒ट्टे॒ । सु॒वि॒तम् । च॒ । नव्य॑म् ॥उशन्ता । दूता । न । दभाय । गोपा । मासः । च । पाथः । शरदः । च । पूर्वीः । इन्द्रवायू इति । सुस्तुतिः । वाम् । इयाना । मार्डीकम् । ईट्टे । सुवितम् । च । नव्यम् ॥uśantā | dūtā | na | dabhāya | gopā | māsaḥ | ca | pāthaḥ | śaradaḥ | ca | pūrvīḥ | indravāyūiti | su-stutiḥ | vām | iyānā | mārḍīkam | īṭe | suvitam | ca | navyam