Sukta 7.90
ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः । इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥
ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः । इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥
īśānā́so yé dádhate svàr no góbhir áśvebhir vásubhir híraṇyaiḥ | índravāyū sū́rayo víśvam ā́yur árvadbhir vīráiḥ pṛ́tanāsu sahyuḥ ||
Those who are masters, who set for us the luminous world (svàr), with rays and swift forces, with riches and golden substance—may such illumined heroes, O Indra–Vāyu, endure through the whole span of life and prevail in the inner battles with their charging powers.
ई॒शा॒नासः॑ । ये । दध॑ते । स्वः॑ । नः॒ । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । हिर॑ण्यैः । इन्द्र॑वायू॒ इति॑ । सू॒रयः॑ । विश्व॑म् । आयुः॑ । अर्व॑त्ऽभिः । वी॒रैः । पृत॑नासु । स॒ह्युः॒ ॥ईशानासः । ये । दधते । स्वः । नः । गोभिः । अश्वेभिः । वसुभिः । हिरण्यैः । इन्द्रवायू इति । सूरयः । विश्वम् । आयुः । अर्वत्भिः । वीरैः । पृतनासु । सह्युः ॥īśānāsaḥ | ye | dadhate | svaḥ | naḥ | gobhiḥ | aśvebhiḥ | vasu-bhiḥ | hiraṇyaiḥ | indravāyūiti | sūrayaḥ | viśvam | āyuḥ | arvat-bhiḥ | vīraiḥ | pṛtanāsu | sahyuḥ