Sukta 7.90
ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति । इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते ॥
ते स॒त्येन॒ मन॑सा॒ दीध्या॑ना॒: स्वेन॑ यु॒क्तास॒: क्रतु॑ना वहन्ति । इन्द्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्ष॑: सचन्ते ॥
té satyéna mánasā dīdhyā́nāḥ svéna yuktā́saḥ krátunā vahanti | índravāyū vīrávāhaṃ ráthaṃ vā m īśānayór abhí pṛ́kṣaḥ sacante ||
They, kindled by a mind of Truth, yoked by their own law of being, bear forward by the power of will. O Indra–Vāyu, around your hero-bearing chariot the nourishing plenitudes gather, cleaving to the mastery of you both.
ते । स॒त्येन । मन॑सा । दीध्या॑नाः । स्वेन॑ । यु॒क्तासः॑ । क्रतु॑ना । व॒ह॒न्ति॒ । इन्द्र॑वायू॒ इति॑ । वी॒र॒ऽवाह॑म् । रथ॑म् । वा॒म् । ई॒शा॒नयोः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ ॥ते । सत्येन । मनसा । दीध्यानाः । स्वेन । युक्तासः । क्रतुना । वहन्ति । इन्द्रवायू इति । वीरवाहम् । रथम् । वाम् । ईशानयोः । अभि । पृक्षः । सचन्ते ॥te | satyena | manasā | dīdhyānāḥ | svena | yuktāsaḥ | kratunā | vahanti | indravāyūiti | vīra-vāham | ratham | vām | īśānayoḥ | abhi | pṛkṣaḥ | sacante