Sukta 7.90
उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः । गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः ॥
उ॒च्छन्नु॒षस॑: सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः । गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिव॑: सस्रु॒राप॑: ॥
ucchánn uṣásaḥ sudínā ariprā́ urú jyótir vividur dīdhyā́nāḥ | gávyam cid ū́rvam uśíjo ví vavrus téṣām ánu pradívaḥ sasrúr ā́paḥ ||
Dawn-powers rise, bringing the good day, flawless; in their kindled seeking they discover the wide Light. Even the hidden pen of the Rays they have opened out; and along their track the Waters flow from the heights of heaven.
उ॒च्छन् । उ॒षसः॑ । सु॒ऽदिनाः॑ । अ॒रि॒प्राः । उ॒रु । ज्योतिः॑ । वि॒वि॒दुः॒ । दीध्या॑नाः । गव्य॑म् । चि॒त् । ऊ॒र्वम् । उ॒शिजः॑ । वि । व॒व्रुः॒ । तेषा॑म् । अनु॑ । प्र॒ऽदिवः॑ । सस्रुः॑ । आपः॑ ॥उच्छन् । उषसः । सुदिनाः । अरिप्राः । उरु । ज्योतिः । विविदुः । दीध्यानाः । गव्यम् । चित् । ऊर्वम् । उशिजः । वि । वव्रुः । तेषाम् । अनु । प्रदिवः । सस्रुः । आपः ॥ucchan | uṣasaḥ | su-dināḥ | ariprāḥ | uru | jyotiḥ | vividuḥ | dīdhyānāḥ | gavyam | cit | ūrvam | uśijaḥ | vi | vavruḥ | teṣām | anu | pra-divaḥ | sasruḥ | āpaḥ