Sukta 7.90
राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् । अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अध॑ वा॒युं नि॒युत॑: सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥
rā́ye nú yáṃ jajñátū ródasī imé rā́ye devī́ dhiṣáṇā dhāti devám | ádha vāyúṃ niyútaḥ saścata svā́ utá śvétam vásudhitiṃ nireké ||
For the growth of the inner plenitude (rā́yas), these two—Heaven and Earth—have brought to birth the divine Power; for the same increase the goddess Dhīṣaṇā establishes the God within. Then Vāyu’s own yoked energies come and cleave to him, and there shines out the white foundation of abundance, set free in its pure expanse.
रा॒ये । नु । यम् । ज॒ज्ञतुः॑ । रोद॑सी॒ इति॑ । इ॒मे इति॑ । रा॒ये । दे॒वी । धि॒षणा॑ । धा॒ति॒ । दे॒वम् । अध॑ । वा॒युम् । नि॒ऽयुतः॑ । स॒श्च॒त॒ । स्वाः । उ॒त । श्वे॒तम् । वसु॑ऽधितिम् । नि॒रे॒के ॥राये । नु । यम् । जज्ञतुः । रोदसी इति । इमे इति । राये । देवी । धिषणा । धाति । देवम् । अध । वायुम् । नियुतः । सश्चत । स्वाः । उत । श्वेतम् । वसुधितिम् । निरेके ॥rāye | nu | yam | jajñatuḥ | rodasī iti | ime iti | rāye | devī | dhiṣaṇā | dhāti | devam | adha | vāyum | ni-yutaḥ | saścata | svāḥ | uta | śvetam | vasu-dhitim | nireke