Sukta 7.90
ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो । कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥
ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो । कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥
īśānā́ya prá-hutiṃ yás ta ā́naṭ śúciṃ sómaṃ śuci-pā́s túbhyaṃ vāyo | kṛṇóṣi táṃ mártyeṣu praśastáṃ jā́to-jā́to jā́yate vā́jyasya ||
He who brings to you the forward offering for your lordship, O Vāyu—pure soma for you, the pure-drinker—you make that offering praised among mortals; again and again there is born in him the plenitude of force.
ई॒शा॒नाय॑ । प्रऽहु॑ति॒म् । यः । ते॒ । आन॑ट् । शुचि॑म् । सोम॑म् । शु॒चि॒ऽपाः॒ । तुभ्य॑म् । वा॒यो॒ इति॑ । कृ॒णोषि॑ । तम् । मर्त्ये॑षु । प्र॒ऽश॒स्तम् । जा॒तः॑ऽजा॑तः । जा॒य॒ते॒ । वा॒ज्य॑स्य ॥ईशानाय । प्रहुतिम् । यः । ते । आनट् । शुचिम् । सोमम् । शुचिपाः । तुभ्यम् । वायो इति । कृणोषि । तम् । मर्त्येषु । प्रशस्तम् । जातःजातः । जायते । वाज्यस्य ॥īśānāya | pra-hutim | yaḥ | te | ānaṭ | śucim | somam | śuci-pāḥ | tubhyam | vāyo iti | kṛṇoṣi | tam | martyeṣu | pra-śastam | jātaḥ-jātaḥ | jāyate | vājyasya