Sukta 7.90
प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः । वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तास॑: । वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥
prá vīra-yā́ śúcayo dadrire vām adhvaryúbhir mádhu-mantaḥ sutā́saḥ | váha vāyo ni-yúto yā́hy ácchā píbā sutásyā́ndhaso mádāya ||
Forward, with hero-force, the pure pressed offerings have run toward you both, made ready by the adhvaryus, honey-rich. O Vāyu, bring your yoked teams; come here—drink of the pressed soma-essence for the ecstasy that enlarges the being.
प्र । वी॒र॒ऽया । शुच॑यः । द॒द्रिः॒ । वा॒म् । अ॒ध्व॒र्युऽभिः॑ । मधु॑ऽमन्तः । सु॒तासः॑ । वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अच्छ॑ । पिब॑ । सु॒तस्य॑ । अन्ध॑सः । मदा॑य ॥प्र । वीरया । शुचयः । दद्रिः । वाम् । अध्वर्युभिः । मधुमन्तः । सुतासः । वह । वायो इति । नियुतः । याहि । अच्छ । पिब । सुतस्य । अन्धसः । मदाय ॥pra | vīra-yā | śucayaḥ | dadriḥ | vām | adhvaryu-bhiḥ | madhu-mantaḥ | sutāsaḥ | vaha | vāyo iti | ni-yutaḥ | yāhi | accha | piba | sutasya | andhasaḥ | madāya