Sukta 7.9
ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः । सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त ॥
ई॒ळेन्यो॑ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे॑दाः । सु॒सं॒दृशा॑ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गाव॑: समिधा॒नं बु॑धन्त ॥
īḷényo vo mánuṣo yugéṣu samaná-gā aśucat jātá-vedāḥ | su-sandṛ́śā bhānúnā yó vibhā́ti práti gā́vaḥ samidhā́naṃ budhanta ||
Worthy of aspiration for you, O human beings through the ages, Jātavedas has blazed forth in a common movement. He who shines out with a fair-seeing radiance—toward the kindled flame the Rays (the ‘cows’ of light) awaken and become conscious.
ई॒ळेन्यः॑ । वः॒ । मनु॑षः । यु॒गेषु॑ । स॒म॒न॒ऽगाः । अ॒शु॒च॒त् । जा॒तऽवे॑दाः । सु॒ऽस॒न्दृशा॑ । भा॒नुना॑ । यः । वि॒ऽभाति॑ । प्रति॑ । गावः॑ । स॒म्ऽइ॒धा॒नम् । बु॒ध॒न्त॒ ॥ईळेन्यः । वः । मनुषः । युगेषु । समनगाः । अशुचत् । जातवेदाः । सुसन्दृशा । भानुना । यः । विभाति । प्रति । गावः । सम्इधानम् । बुधन्त ॥īḷenyaḥ | vaḥ | manuṣaḥ | yugeṣu | samana-gāḥ | aśucat | jāta-vedāḥ | su-sandṛśā | bhānunā | yaḥ | vi-bhāti | prati | gāvaḥ | sam-idhānam | budhanta