Sukta 7.9
अमूरः कविरदितिर्विवस्वान्त्सुसंसन्मित्रो अतिथिः शिवो नः । चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश ॥
अमू॑रः क॒विरदि॑तिर्वि॒वस्वा॑न्त्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो न॑: । चि॒त्रभा॑नुरु॒षसां॑ भा॒त्यग्रे॒ऽपां गर्भ॑: प्र॒स्व१॒॑ आ वि॑वेश ॥
amūraḥ kavír áditir vivásvān su-saṃsán mitró átithiḥ śivó naḥ | citrábhānur uṣásām bhāty ágre 'pā́m gárbhaḥ prasvá ā viveśa ||
Unbewildered, the Seer—Aditi, the all-containing wideness—Vivasvan the radiant, Mitra of harmonious law, the gracious Guest for our house: he of varied light shines in front of the Dawns; the Child of the Waters, the forward-impelling, has entered into manifestation.
अमू॑रः । क॒विः । अदि॑तिः । वि॒वस्वा॑न् । सु॒ऽसं॒सत् । मि॒त्रः । अति॑थिः । शि॒वः । नः॒ । चि॒त्रऽभा॑नुः । उ॒षसा॑म् । भा॒ति॒ । अग्रे॑ । अ॒पाम् । गर्भः॑ । प्र॒ऽस्वः॑ । आ । वि॒वे॒श॒ ॥अमूरः । कविः । अदितिः । विवस्वान् । सुसंसत् । मित्रः । अतिथिः । शिवः । नः । चित्रभानुः । उषसाम् । भाति । अग्रे । अपाम् । गर्भः । प्रस्वः । आ । विवेश ॥amūraḥ | kaviḥ | aditiḥ | vivasvān | su-saṃsat | mitraḥ | atithiḥ | śivaḥ | naḥ | citra-bhānuḥ | uṣasām | bhāti | agre | apām | garbhaḥ | pra-svaḥ | ā | viveśa