Sukta 7.9
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः । होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥
स सु॒क्रतु॒र्यो वि दुर॑: पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः । होता॑ म॒न्द्रो वि॒शां दमू॑नास्ति॒रस्तमो॑ ददृशे रा॒म्याणा॑म् ॥
sa sukrátur yó ví dúraḥ paṇīnām punānáḥ arkáṃ purubhójasam naḥ | hotā mandró viśā́m damū́nās tirás támo dadṛśe rāmyā́ṇām ||
He, the Power of right discernment, who opens wide the doors of the Panis (the hoarders of inner light), purifying, brings forth for us the inspired flame of the Word that feeds many powers. A glad and luminous Priest of the peoples, the dweller in the home of the being, he is seen beyond the darkness by those who delight in harmony and beauty of the soul.
सः । सु॒ऽक्रतुः॑ । यः । वि । दुरः॑ । प॒णी॒नाम् । पु॒ना॒नः । अ॒र्कम् । पु॒रु॒ऽभोज॑सम् । नः॒ । होता॑ । म॒न्द्रः । वि॒शाम् । दमू॑नाः । ति॒रः । तमः॑ । द॒दृ॒शे॒ । रा॒म्याणा॑म् ॥सः । सुक्रतुः । यः । वि । दुरः । पणीनाम् । पुनानः । अर्कम् । पुरुभोजसम् । नः । होता । मन्द्रः । विशाम् । दमूनाः । तिरः । तमः । ददृशे । राम्याणाम् ॥saḥ | su-kratuḥ | yaḥ | vi | duraḥ | paṇīnām | punānaḥ | arkam | puru-bhojasam | naḥ | hotā | mandraḥ | viśām | damūnāḥ | tiraḥ | tamaḥ | dadṛśe | rāmyāṇām