Sukta 7.9
अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः । दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥
अबो॑धि जा॒र उ॒षसा॑मु॒पस्था॒द्धोता॑ म॒न्द्रः क॒वित॑मः पाव॒कः । दधा॑ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥
abó̄dhi jārá uṣásām upásthād hótā mandráḥ kavítamaḥ pāvakáḥ | dádhāti ketúm ubháyasya jántor havyā́ devéṣu dráviṇaṃ sukṛ́tsu ||
He has awakened—the lover from the lap of the Dawns: the priest, the gladdening, the most seer-like, the purifying. He sets the sign and the discernment for the twofold being (inner and outer); he establishes the offerings among the gods and the wealth in the doers of the good.
अबो॑धि । जा॒रः । उ॒षसा॑म् । उ॒पऽस्था॑त् । होता॑ । म॒न्द्रः । क॒विऽत॑मः । पा॒व॒कः । दधा॑ति । के॒तुम् । उ॒भय॑स्य । ज॒न्तोः । ह॒व्या । दे॒वेषु॑ । द्रवि॑णम् सु॒कृत्ऽसु॑ ॥अबोधि । जारः । उषसाम् । उपस्थात् । होता । मन्द्रः । कवितमः । पावकः । दधाति । केतुम् । उभयस्य । जन्तोः । हव्या । देवेषु । द्रविणम् सुकृत्सु ॥abodhi | jāraḥ | uṣasām | upa-sthāt | hotā | mandraḥ | kavi-tamaḥ | pāvakaḥ | dadhāti | ketum | ubhayasya | jantoḥ | havyā | deveṣu | draviṇam sukṛt-su