Sukta 7.86
न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः । अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥
न स स्वो दक्षो॑ वरुण॒ ध्रुति॒: सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः । अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥
ná sá svó dákṣo váruṇa dhrutíḥ sā́ surā́ mányur vibhī́dako ácittiḥ | ásti jyā́yān kánīyasa upāré svápnaś canéd anṛ́tasya prayotā́ ||
It is not truly my own right discernment, O Varuṇa, nor a steady holding; it is intoxication, anger that drives to fear, it is unawareness. The elder can slip into the state of the younger; even sleep can become a prompter of untruth—there are forces in us that bend the will away from the right.
न । सः । स्वः । दक्षः॑ । व॒रु॒ण॒ । ध्रुतिः॑ । सा । सुरा॑ । म॒न्युः । वि॒ऽभीद॑कः । अचि॑त्तिः । अस्ति॑ । ज्याया॑न् । कनी॑यसः । उ॒प॒ऽअ॒रे । स्वप्नः॑ । च॒न । इत् । अनृ॑तस्य । प्र॒ऽयो॒ता ॥न । सः । स्वः । दक्षः । वरुण । ध्रुतिः । सा । सुरा । मन्युः । विभीदकः । अचित्तिः । अस्ति । ज्यायान् । कनीयसः । उपअरे । स्वप्नः । चन । इत् । अनृतस्य । प्रयोता ॥na | saḥ | svaḥ | dakṣaḥ | varuṇa | dhrutiḥ | sā | surā | manyuḥ | vi-bhīdakaḥ | acittiḥ | asti | jyāyān | kanīyasaḥ | upa-are | svapnaḥ | cana | it | anṛtasya | pra-yotā