Sukta 7.86
अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः । अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥
अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः । अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥
áraṃ dā́so ná mīḷhúṣe karāṇy aháṃ devā́ya bhū́rṇaye 'nā́gāḥ | ácetayad acíto devó aryó gṛ́tsaṃ rā́ye kavítaro junāti ||
Let me be fit, like a servant to the generous giver; I—without guilt—would work for the divine Power that turns and moves all. The noble god awakens the unknowing; the more-seeing poet impels the eager seeker toward the riches of fullness.
अर॑म् । दा॒सः । न । मी॒ळ्हुषे॑ । क॒रा॒णि॒ । अ॒हम् । दे॒वाय॑ । भूर्ण॑ये । अना॑गाः । अचे॑तयत् । अ॒चितः॑ । दे॒वः । अ॒र्यः । गृत्स॑म् । रा॒ये । क॒विऽत॑रः । जु॒ना॒ति॒ ॥अरम् । दासः । न । मीळ्हुषे । कराणि । अहम् । देवाय । भूर्णये । अनागाः । अचेतयत् । अचितः । देवः । अर्यः । गृत्सम् । राये । कवितरः । जुनाति ॥aram | dāsaḥ | na | mīḷhuṣe | karāṇi | aham | devāya | bhūrṇaye | anāgāḥ | acetayat | acitaḥ | devaḥ | aryaḥ | gṛtsam | rāye | kavi-taraḥ | junāti