Sukta 7.86
अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः । अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥
अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभि॑: । अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥
áva drugdhā́ni pitryā́ sṛjā no 'vá yā́ vayáṃ cakṛmā́ tanū́bhiḥ | áva rā́jan paśu-tṛ́paṃ ná tāyúṃ sṛjá vatsáṃ ná dā́mno vásiṣṭham ||
Release from us the ancestral distortions and the wrongs we ourselves have fashioned in our embodied nature. O King, let go the seeker who has gone astray, like one who has fed on another’s herd; release Vasiṣṭha from the binding cord, as a calf is freed from its tether.
अव॑ । द्रु॒ग्धानि॑ । पित्र्या॑ । सृ॒ज॒ । नः॒ । अव॑ । या । व॒यम् । च॒कृ॒म । त॒नूभिः॑ । अव॑ । रा॒ज॒न् । प॒शु॒ऽतृप॑म् । न । ता॒युम् । सृ॒ज । व॒त्सम् । न । दाम्नः॑ । वसि॑ष्ठम् ॥अव । द्रुग्धानि । पित्र्या । सृज । नः । अव । या । वयम् । चकृम । तनूभिः । अव । राजन् । पशुतृपम् । न । तायुम् । सृज । वत्सम् । न । दाम्नः । वसिष्ठम् ॥ava | drugdhāni | pitryā | sṛja | naḥ | ava | yā | vayam | cakṛma | tanūbhiḥ | ava | rājan | paśu-tṛpam | na | tāyum | sṛja | vatsam | na | dāmnaḥ | vasiṣṭham