Sukta 7.86
पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् । समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥
पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छ॑म् । स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥
pṛ́cche tád éno váruṇa didṛ́kṣū́po émi cikítuṣo ví-pṛccham | samānám ín me kaváyaś cid āhur ayáṃ ha túbhyaṃ váruṇo hṛṇīte ||
I ask about that fault, O Varuṇa, desiring to see it clearly; I go near to question the one who knows. Even the sages tell me the same: ‘This Varuṇa is indeed offended with you’—as if the law within has turned away from my present state.
पृ॒च्छे । तत् । एनः॑ । व॒रु॒ण॒ । दि॒दृक्षु॑ । उपो॒ इति॑ । ए॒मि॒ । चि॒कि॒तुषः॑ । वि॒ऽपृच्छ॑म् । स॒मा॒नम् । इत् । मे॒ । क॒वयः॑ । चि॒त् । आ॒हुः॒ । अ॒यम् । ह॒ । तुभ्य॑म् । वरु॑णः । हृ॒णी॒ते॒ ॥पृच्छे । तत् । एनः । वरुण । दिदृक्षु । उपो इति । एमि । चिकितुषः । विपृच्छम् । समानम् । इत् । मे । कवयः । चित् । आहुः । अयम् । ह । तुभ्यम् । वरुणः । हृणीते ॥pṛcche | tat | enaḥ | varuṇa | didṛkṣu | upo iti | emi | cikituṣaḥ | vi-pṛccham | samānam | it | me | kavayaḥ | cit | āhuḥ | ayam | ha | tubhyam | varuṇaḥ | hṛṇīte