Sukta 7.86
उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि । किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥
उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि । किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥
utá sváyā tanvā́ sáṃ vade tát kadā́ nv àntar váruṇe bhuvāni | kíṃ me havyám áhṛṇāno juṣeta kadā́ mṛḷīkáṃ su-mánā abhí khyam ||
And I speak with my own being about this: when shall I come within you, O Varuṇa? What offering of mine will you accept without displeasure? When, with a gracious mind, shall I behold your mercy—your healing release within my heart?
उ॒त । स्वया॑ । त॒न्वा॑ । सम् । व॒दे॒ । तत् । क॒दा । नु । अ॒न्तः । वरु॑णे । भु॒वा॒नि॒ । किम् । मे॒ । ह॒व्यम् । अहृ॑णानः । जु॒षे॒त॒ । क॒दा । मृ॒ळी॒कम् । सु॒ऽमनाः॑ । अ॒भि । ख्य॒म् ॥उत । स्वया । तन्वा । सम् । वदे । तत् । कदा । नु । अन्तः । वरुणे । भुवानि । किम् । मे । हव्यम् । अहृणानः । जुषेत । कदा । मृळीकम् । सुमनाः । अभि । ख्यम् ॥uta | svayā | tanvā | sam | vade | tat | kadā | nu | antaḥ | varuṇe | bhuvāni | kim | me | havyam | ahṛṇānaḥ | juṣeta | kadā | mṛḷīkam | su-manāḥ | abhi | khyam