Sukta 7.86
धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी । प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥
धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी । प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥
dhīrā́ tv asya mahinā́ janū́ṃṣi ví yas tastámbha ródasī cid urvī́ | prá nā́kam ṛṣváṃ nunude bṛhántam dvitā́ nákṣatraṃ papráthat ca bhū́ma ||
By the greatness of That One, the steadfast powers of insight are awakened—he who set firm even the two wide worlds. He thrust forth the lofty, vast heaven; he spread out the double seat of the stars and the foundation of earth—establishing the ordered wideness in which consciousness can grow.
धीरा॑ । तु । अ॒स्य॒ । म॒हि॒ना । ज॒नूंषि॑ । वि । यः । त॒स्तम्भ॑ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । प्र । नाक॑म् । ऋ॒ष्वम् । नु॒नु॒दे॒ । बृ॒हन्त॑म् । द्वि॒ता । नक्ष॑त्रम् । प॒प्रथ॑त् । च॒ । भूम॑ ॥धीरा । तु । अस्य । महिना । जनूंषि । वि । यः । तस्तम्भ । रोदसी इति । चित् । उर्वी इति । प्र । नाकम् । ऋष्वम् । नुनुदे । बृहन्तम् । द्विता । नक्षत्रम् । पप्रथत् । च । भूम ॥dhīrā | tu | asya | mahinā | janūṃṣi | vi | yaḥ | tastambha | rodasī iti | cit | urvī iti | pra | nākam | ṛṣvam | nunude | bṛhantam | dvitā | nakṣatram | paprathat | ca | bhūma