Sukta 7.84
अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् । प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥
अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् । प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥
asmé indrāvaruṇā viśvá-vāraṃ rayíṃ dhattaṃ vásu-mantaṃ puru-kṣúm | prá yá ādityó anṛ́tā minā́ty ámitā śū́ro dayate vásūni ||
In us, O Indra and Varuṇa, place the wealth that holds all desirable things—rich in substance and abundant in powers. For the Aditya, the immeasurable hero, diminishes the falsehoods and distributes the true riches of being.
अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । वि॒श्वऽवा॑रम् । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । पु॒रु॒ऽक्षुम् । प्र । यः । आ॒दि॒त्यः । अनृ॑ता । मि॒नाति॑ । अमि॑ता । शूरः॑ । द॒य॒ते॒ । वसू॑नि ॥अस्मे इति । इन्द्रावरुणा । विश्ववारम् । रयिम् । धत्तम् । वसुमन्तम् । पुरुक्षुम् । प्र । यः । आदित्यः । अनृता । मिनाति । अमिता । शूरः । दयते । वसूनि ॥asme iti | indrāvaruṇā | viśva-vāram | rayim | dhattam | vasu-mantam | puru-kṣum | pra | yaḥ | ādityaḥ | anṛtā | mināti | amitā | śūraḥ | dayate | vasūni