Sukta 7.84
इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना । सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥
इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना । सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
iyám índraṃ váruṇam aṣṭa me gī́ḥ prá āvat tókē tánaye tū́tujānā | su-rátnāso deva-vī́tiṃ gamema yūyáṃ pāta svastíbhiḥ sádā naḥ ||
This my song has reached Indra and Varuṇa; it has advanced, urging on our lineage and child-soul. May we, rich in true treasures, go to the gods’ finding and enjoyment; do you guard us always with states of well-being.
इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना । सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥इयम् । इन्द्रम् । वरुणम् । अष्ट । मे । गीः । प्र । आवत् । तोके । तनये । तूतुजाना । सुरत्नासः । देववीतिम् । गमेम । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥iyam | indram | varuṇam | aṣṭa | me | gīḥ | pra | āvat | toke | tanaye | tūtujānā | su-ratnāsaḥ | deva-vītim | gamema | yūyam | pāta | svasti-bhiḥ | sadā | naḥ