Sukta 7.84
युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः । परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् ॥
यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभि॑: सिनी॒थः । परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्र॑: कृणवदु लो॒कम् ॥
yuvó rāṣṭráṃ bṛhád ínvati dyáur yau setṛ́bhir arajjúbhiḥ sinī́thaḥ | párí no héḷo váruṇasya vṛjyā urúṃ na índraḥ kṛṇavad u lokám ||
Your wide kingdom is set in motion by Heaven itself, you who bind with spanning cords and bridges. Remove from around us the pressure of Varuṇa’s wrath; may Indra make for us a broad space to dwell in.
यु॒वः । रा॒ष्ट्रम् । बृ॒हत् । इ॒न्व॒ति॒ । द्यौः । यौ । से॒तृऽभिः॑ । अ॒र॒ज्जुऽभिः॑ । सि॒नी॒थः । परि॑ । नः॒ । हेळः॑ । वरु॑णस्य । वृ॒ज्याः॒ । उ॒रुम् । नः॒ । इन्द्रः॑ । कृ॒ण॒व॒त् । ऊँ॒ इति॑ । लो॒कम् ॥युवः । राष्ट्रम् । बृहत् । इन्वति । द्यौः । यौ । सेतृभिः । अरज्जुभिः । सिनीथः । परि । नः । हेळः । वरुणस्य । वृज्याः । उरुम् । नः । इन्द्रः । कृणवत् । ऊँ इति । लोकम् ॥yuvaḥ | rāṣṭram | bṛhat | invati | dyauḥ | yau | setṛ-bhiḥ | arajju-bhiḥ | sinīthaḥ | pari | naḥ | heḷaḥ | varuṇasya | vṛjyāḥ | urum | naḥ | indraḥ | kṛṇavat | oṃ iti | lokam