Sukta 7.84
आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः । प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥
आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः । प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥
ā vāṃ rājānāv adhvaré vavṛtyāṃ havyébhiḥ indrāvaruṇā námobhiḥ | prá vāṃ ghṛtā́cī bāhvór dádhānā párí tmanā́ víṣu-rūpā jigāti ||
I turn you two kings toward the sacrifice, O Indra and Varuṇa, with offerings and acts of reverence. The ghee-bright impulse, taking its place in your arms, moves around of itself in many forms, bringing the oblation to its destined reach.
आ । वा॒म् । रा॒जा॒नौ॒ । अ॒ध्व॒रे । व॒वृ॒त्याम् । ह॒व्येभिः॑ । इ॒न्द्रा॒व॒रु॒णा॒ । नमः॑ऽभिः । प्र । वा॒म् । घृ॒ताची॑ । बा॒ह्वोः । दधा॑ना । परि॑ । त्मना॑ । विषु॑ऽरूपा । जि॒गा॒ति॒ ॥आ । वाम् । राजानौ । अध्वरे । ववृत्याम् । हव्येभिः । इन्द्रावरुणा । नमःभिः । प्र । वाम् । घृताची । बाह्वोः । दधाना । परि । त्मना । विषुरूपा । जिगाति ॥ā | vām | rājānau | adhvare | vavṛtyām | havyebhiḥ | indrāvaruṇā | namaḥ-bhiḥ | pra | vām | ghṛtācī | bāhvoḥ | dadhānā | pari | tmanā | viṣu-rūpā | jigāti