Sukta 7.83
युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये । यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह ॥
यु॒वां ह॑वन्त उ॒भया॑स आ॒जिष्विन्द्रं॑ च॒ वस्वो॒ वरु॑णं च सा॒तये॑ । यत्र॒ राज॑भिर्द॒शभि॒र्निबा॑धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ॥
yuvā́ṃ havanta ubháyāsa ā́jiṣv índraṃ ca vásvo váruṇaṃ ca sātáye | yátra rā́jabhir daśábhir níbādhitaṃ prá sudā́sam ā́vataṃ tṛ́tsubhiḥ sahá ||
Both parties call upon you in the battles—Indra and Varuṇa, O lords of true wealth—for the winning. Where Sudās was pressed down by the ten kings, there you brought him forward with the Tṛtsus: you made the soul-force rise in the midst of constraint.
यु॒वाम् । ह॒व॒न्ते॒ । उ॒भया॑सः । आ॒जिषु॑ । इन्द्र॑म् । च॒ । वस्वः॑ । वरु॑णम् । च॒ । सा॒तये॑ । यत्र॑ । राज॑ऽभिः । द॒शऽभिः॑ । निऽबा॑धितम् । प्र । सु॒ऽदास॑म् । आव॑तम् । तृत्सु॑ऽभिः । स॒ह ॥युवाम् । हवन्ते । उभयासः । आजिषु । इन्द्रम् । च । वस्वः । वरुणम् । च । सातये । यत्र । राजभिः । दशभिः । निबाधितम् । प्र । सुदासम् । आवतम् । तृत्सुभिः । सह ॥yuvām | havante | ubhayāsaḥ | ājiṣu | indram | ca | vasvaḥ | varuṇam | ca | sātaye | yatra | rāja-bhiḥ | daśa-bhiḥ | ni-bādhitam | pra | su-dāsam | āvatam | tṛtsu-bhiḥ | saha