Sukta 7.83
इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः । युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि ॥
इन्द्रा॑वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा॑तयः । यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये॑ दि॒वि ॥
indrā́varuṇāv abhyā́ tapanti mā́ghāny aryó vanúṣām arā́tayaḥ | yuváṃ hí vásva ubháyasya rā́jatho 'dhá smā no avataṃ pā́rye diví ||
O Indra and Varuṇa, the hostile non-giving forces scorch our bounty and our noble growth. For you are kings of the wealth on both sides—within and without; therefore protect us in the farther heaven, in the higher plane where the true riches are guarded.
इन्द्रा॑वरुणौ । अ॒भि । आ । त॒प॒न्ति॒ । मा । अ॒घानि॑ । अ॒र्यः । व॒नुषा॑म् । अरा॑तयः । यु॒वम् । हि । वस्वः॑ । उ॒भय॑स्य । राज॑थः । अध॑ । स्म॒ । नः॒ । अ॒व॒त॒म् । पार्ये॑ । दि॒वि ॥इन्द्रावरुणौ । अभि । आ । तपन्ति । मा । अघानि । अर्यः । वनुषाम् । अरातयः । युवम् । हि । वस्वः । उभयस्य । राजथः । अध । स्म । नः । अवतम् । पार्ये । दिवि ॥indrāvaruṇau | abhi | ā | tapanti | mā | aghāni | aryaḥ | vanuṣām | arātayaḥ | yuvam | hi | vasvaḥ | ubhayasya | rājathaḥ | adha | sma | naḥ | avatam | pārye | divi