Sukta 7.83
दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः । सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु ॥
दश॒ राजा॑न॒: समि॑ता॒ अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः । स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए॑षामभवन्दे॒वहू॑तिषु ॥
daśá rājānaḥ sámitā áyajyavaḥ sudā́sam indrāvaruṇā́ ná yuyudhuḥ | satyā́ nṛṇā́m adma-sádām úpa-stutir devā́ eṣām abhavan deva-hū́tiṣu ||
The ten kings, gathered together, without sacrifice, could not truly contend with Sudās when Indra and Varuṇa stood with him. The true acclaim of the men who sit in the home (the settled consciousness) became effective: the gods were present for them in the divine callings—Truth brought the divine into their acts.
दश॑ । राजा॑नः । सम्ऽइ॑ताः । अय॑ज्यवः । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । न । यु॒यु॒धुः॒ । स॒त्या । नृ॒णाम् । अ॒द्म॒ऽसदा॑म् । उप॑ऽस्तुतिः । दे॒वाः । ए॒षा॒म् । अ॒भ॒व॒न् । दे॒वऽहू॑तिषु ॥दश । राजानः । सम्इताः । अयज्यवः । सुदासम् । इन्द्रावरुणा । न । युयुधुः । सत्या । नृणाम् । अद्मसदाम् । उपस्तुतिः । देवाः । एषाम् । अभवन् । देवहूतिषु ॥daśa | rājānaḥ | sam-itāḥ | ayajyavaḥ | su-dāsam | indrāvaruṇā | na | yuyudhuḥ | satyā | nṛṇām | adma-sadām | upa-stutiḥ | devāḥ | eṣām | abhavan | deva-hūtiṣu