Sukta 7.83
इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम् । ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः ॥
इन्द्रा॑वरुणा व॒धना॑भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास॑मावतम् । ब्रह्मा॑ण्येषां शृणुतं॒ हवी॑मनि स॒त्या तृत्सू॑नामभवत्पु॒रोहि॑तिः ॥
indrā́varuṇā vadhánābhir apratí bhédáṃ vanvántā prá sudā́sam āvatam | bráhmāṇy eṣāṃ śṛṇutaṃ hávīmani satyā́ tṛ́tsūnām abhavat puróhitiḥ ||
O Indra and Varuṇa, with your slaying powers you shattered the resistance that could not be withstood; you brought forward your aid to Sudās. Hear their mantras in the offering-march: the true guiding will (purohita-force) became established for the Tṛtsus, leading them in the front of the journey.
इन्द्रा॑वरुणा । व॒धना॑भिः । अ॒प्र॒ति । भे॒दम् । व॒न्वन्ता॑ । प्र । सु॒ऽदास॑म् । आ॒व॒त॒म् । ब्रह्मा॑णि । ए॒षा॒म् । शृ॒णु॒त॒म् । हविआ॑मनि । स॒त्या । तृत्सू॑नाम् । अ॒भ॒व॒त् । पु॒रःऽहि॑तिः ॥इन्द्रावरुणा । वधनाभिः । अप्रति । भेदम् । वन्वन्ता । प्र । सुदासम् । आवतम् । ब्रह्माणि । एषाम् । शृणुतम् । हविआमनि । सत्या । तृत्सूनाम् । अभवत् । पुरःहितिः ॥indrāvaruṇā | vadhanābhiḥ | aprati | bhedam | vanvantā | pra | su-dāsam | āvatam | brahmāṇi | eṣām | śṛṇutam | haviāmani | satyā | tṛtsūnām | abhavat | puraḥ-hitiḥ