Sukta 7.83
यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम् । यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् ॥
यत्रा॒ नर॑: स॒मय॑न्ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् । यत्रा॒ भय॑न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इन्द्रावरु॒णाधि॑ वोचतम् ॥
yátrā naráḥ samáyante kṛtá-dhvajó yásminn ā́jā bhávati kíṃ caná priyám | yátrā bháyante bhúvanā svaḥ-dṛ́śas tátrā na indrāvaruṇā́dhi vocatam ||
Where the battling men assemble with standards set, where the clash becomes dear to none, where even the worlds that behold the heaven tremble—there, O Indra and Varuṇa, speak over us from above: set in our consciousness the guiding word that steadies and directs.
यत्र॑ । नरः॑ । स॒म्ऽअय॑न्ते । कृ॒तऽध्व॑जः । यस्मि॑न् । आ॒जा । भव॑ति । किम् । च॒न । प्रि॒यम् । यत्र॑ । भय॑न्ते । भुव॑ना । स्वः॒ऽदृशः॑ । तत्र॑ । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । अधि॑ । वो॒च॒त॒म् ॥यत्र । नरः । सम्अयन्ते । कृतध्वजः । यस्मिन् । आजा । भवति । किम् । चन । प्रियम् । यत्र । भयन्ते । भुवना । स्वःदृशः । तत्र । नः । इन्द्रावरुणा । अधि । वोचतम् ॥yatra | naraḥ | sam-ayante | kṛta-dhvajaḥ | yasmin | ājā | bhavati | kim | cana | priyam | yatra | bhayante | bhuvanā | svaḥ-dṛśaḥ | tatra | naḥ | indrāvaruṇā | adhi | vocatam