Sukta 7.83
युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः । दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् ॥
यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं॑ प्रा॒चा ग॒व्यन्त॑: पृथु॒पर्श॑वो ययुः । दासा॑ च वृ॒त्रा ह॒तमार्या॑णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ॥
yuvā́ṃ narā páśyamānāsa ā́pyaṃ prācā́ gavyántaḥ pṛthú-parśavo yayuḥ | dā́sā ca vṛtrā́ hatám ā́ryāṇi ca sudā́sam indrāvaruṇā́vasāvatam ||
You two, O strong ones, seeing the right waters of being, moved forward in front, seekers of the rays, broad-flanked in power. You struck down the Dāsa obstacles and the Vṛtra-coverings, and you brought help by your might to Sudās (the good giver), and to the Aryan growth in us.
यु॒वम् । न॒रा॒ । पश्य॑मानासः । आप्य॑म् । प्रा॒चा । गव्यन्तः॑ । पृ॒थु॒ऽपर्श॑वः । य॒युः॒ । दासा॑ । च॒ । वृ॒त्रा । ह॒तम् । आर्या॑णि । च॒ । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । अव॑सा । अ॒व॒त॒म् ॥युवम् । नरा । पश्यमानासः । आप्यम् । प्राचा । गव्यन्तः । पृथुपर्शवः । ययुः । दासा । च । वृत्रा । हतम् । आर्याणि । च । सुदासम् । इन्द्रावरुणा । अवसा । अवतम् ॥yuvam | narā | paśyamānāsaḥ | āpyam | prācā | gavyantaḥ | pṛthu-parśavaḥ | yayuḥ | dāsā | ca | vṛtrā | hatam | āryāṇi | ca | su-dāsam | indrāvaruṇā | avasā | avatam