Sukta 7.82
अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः । युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम् ॥
अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो॑षथः । यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं॑ मार्डी॒कमि॑न्द्रावरुणा॒ नि य॑च्छतम् ॥
arvā́ṅ narā daivyénāvasā́ gátam śṛṇutáṃ hávaṃ yádi me jújoṣathaḥ | yuvór hí sakhyám utá vā yád ā́pyaṃ mārḍī́kam indrāvaruṇā ní yacchatam ||
Come hither, O two divine heroes, by your godhead’s help; hear my call, if you accept it. For yours is the friendship, and yours too the water-born mercy—O Indra and Varuṇa, set that healing grace within us.
अ॒र्वाक् । न॒रा॒ । दैव्ये॑न । अव॑सा । आ । ग॒त॒म् । शृ॒णु॒तम् । हव॑म् । यदि॑ । मे॒ । जुजो॑षथः । यु॒वोः । हि । स॒ख्यम् । उ॒त । वा॒ । यत् । आप्य॑म् । मा॒र्डी॒कम् । इ॒न्द्रा॒व॒रु॒णा॒ । नि । य॒च्छ॒त॒म् ॥अर्वाक् । नरा । दैव्येन । अवसा । आ । गतम् । शृणुतम् । हवम् । यदि । मे । जुजोषथः । युवोः । हि । सख्यम् । उत । वा । यत् । आप्यम् । मार्डीकम् । इन्द्रावरुणा । नि । यच्छतम् ॥arvāk | narā | daivyena | avasā | ā | gatam | śṛṇutam | havam | yadi | me | jujoṣathaḥ | yuvoḥ | hi | sakhyam | uta | vā | yat | āpyam | mārḍīkam | indrāvaruṇā | ni | yacchatam