Sukta 7.82
अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा । यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥
अ॒स्माक॑मिन्द्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा । यद्वां॒ हव॑न्त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥
asmā́kam indrāvaruṇā bháre-bhare puroyodhā́ bhavataṃ kṛ́ṣṭyojasā | yád vāṃ hávanta ubháye ádha spṛdhí náras tókasyá tánayasya sātíṣu ||
O Indra and Varuṇa, in every onset be our champions in front, by the strength that upholds the people. When both sides call upon you, then win for us, O heroes, in the victories for our child and our offspring.
अ॒स्माक॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । भरे॑ऽभरे । पु॒रः॒ऽयो॒धा । भ॒व॒त॒म् । कृ॒ष्टि॒ऽओ॒ज॒सा॒ । यत् । वा॒म् । हव॑न्ते । उ॒भये॑ । अध॑ । स्पृ॒धि । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तिषु॑ ॥अस्माकम् । इन्द्रावरुणा । भरेभरे । पुरःयोधा । भवतम् । कृष्टिओजसा । यत् । वाम् । हवन्ते । उभये । अध । स्पृधि । नरः । तोकस्य । तनयस्य । सातिषु ॥asmākam | indrāvaruṇā | bhare--bhare | puraḥ-yodhā | bhavatam | kṛṣṭi-ojasā | yat | vām | havante | ubhaye | adha | spṛdhi | naraḥ | tokasya | tanayasya | sātiṣu