Sukta 7.82
न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन । यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः ॥
न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिन्द्रा॑वरुणा॒ न तप॒: कुत॑श्च॒न । यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ॥
ná tám aṃhó ná duritā́ni mártyam índrāvaruṇā ná tápaḥ kútaś caná | yásya devā gácchatho vīthó adhvaráṃ ná táṃ mártasya naśate párihvṛtiḥ ||
No distress, no wrong movements, no burning affliction can touch the mortal, O Indra and Varuṇa, from any side—when you, O gods, travel with him on the path of the sacrifice. The enclosing distortion cannot seize that mortal.
न । तम् । अंहः॑ । न । दुः॒ऽइ॒तानि॑ । मर्त्य॑म् । इन्द्रा॑वरुणा । न । तपः॑ । कुतः॑ । च॒न । यस्य॑ । दे॒वा॒ । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । न । तम् । मर्त॑स्य । न॒श॒ते॒ । परि॑ऽह्वृतिः ॥न । तम् । अंहः । न । दुःइतानि । मर्त्यम् । इन्द्रावरुणा । न । तपः । कुतः । चन । यस्य । देवा । गच्छथः । वीथः । अध्वरम् । न । तम् । मर्तस्य । नशते । परिह्वृतिः ॥na | tam | aṃhaḥ | na | duḥ-itāni | martyam | indrāvaruṇā | na | tapaḥ | kutaḥ | cana | yasya | devā | gacchathaḥ | vīthaḥ | adhvaram | na | tam | martasya | naśate | pari-hvṛtiḥ