Sukta 7.82
अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम् । इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः ॥
अन्व॒पां खान्य॑तृन्त॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुम् । इन्द्रा॑वरुणा॒ मदे॑ अस्य मा॒यिनोऽपि॑न्वतम॒पित॒: पिन्व॑तं॒ धिय॑: ॥
ánv apā́ṃ khā́ny atṛntam ójasā sū́ryam airayataṃ diví prábhūm | índrāvaruṇā máde asya māyíno ápīnvatam ápitaḥ pínvataṃ dhíyaḥ ||
Following the courses of the waters you cleft the channels by your might; you set the Sun, the lordly light, in heaven. O Indra and Varuṇa, in the ecstasy of this master of powers, you made the inspirations swell from the hidden depth; make our thoughts too increase.
अनु॑ । अ॒पाम् । खानि॑ । अ॒तृ॒न्त॒म् । ओ॒ज॒सा । सूर्य॑म् । ऐ॒र॒य॒त॒म् । दि॒वि । प्र॒ऽभुम् । इन्द्रा॑वरुणा । मदे॑ । अ॒स्य॒ । मा॒यिनः॑ । अपि॑न्वतम् । अ॒पितः॑ । पिन्व॑तम् । धियः॑ ॥अनु । अपाम् । खानि । अतृन्तम् । ओजसा । सूर्यम् । ऐरयतम् । दिवि । प्रभुम् । इन्द्रावरुणा । मदे । अस्य । मायिनः । अपिन्वतम् । अपितः । पिन्वतम् । धियः ॥anu | apām | khāni | atṛntam | ojasā | sūryam | airayatam | divi | pra-bhum | indrāvaruṇā | made | asya | māyinaḥ | apinvatam | apitaḥ | pinvatam | dhiyaḥ