Sukta 7.82
सम्राळन्यः स्वराळन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू । विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः ॥
स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हान्ता॒विन्द्रा॒वरु॑णा म॒हाव॑सू । विश्वे॑ दे॒वास॑: पर॒मे व्यो॑मनि॒ सं वा॒मोजो॑ वृषणा॒ सं बलं॑ दधुः ॥
samrā́ḷ anyáḥ svārā́ḷ anyá ucyate vāṃ mahā́ntāv índrā́varuṇā mahā́vasū | víśve devā́saḥ paramé vyòmani sáṃ vām ójo vṛṣaṇā sáṃ bálaṃ dadhūḥ ||
One of you is called the universal king, the other the self-king: you two are great, Indra and Varuṇa, the great givers of substance. All the gods in the highest heaven have set together in you, O two strong bulls, the joined force and the joined power.
स॒म्ऽराट् । अ॒न्यः । स्व॒ऽराट् । अ॒न्यः । उ॒च्य॒ते॒ । वा॒म् । म॒हान्तौ॑ । इन्द्रा॒वरु॑णा । म॒हाव॑सू॒ इति॑ म॒हाऽव॑सू । विश्वे॑ । दे॒वासः॑ । प॒र॒मे । विऽओ॑मनि । सम् । वा॒म् । ओजः॑ । वृ॒ष॒णा॒ । सम् । बल॑म् । द॒धुः॒ ॥सम्राट् । अन्यः । स्वराट् । अन्यः । उच्यते । वाम् । महान्तौ । इन्द्रावरुणा । महावसू इति महावसू । विश्वे । देवासः । परमे । विओमनि । सम् । वाम् । ओजः । वृषणा । सम् । बलम् । दधुः ॥sam-rāṭ | anyaḥ | sva-rāṭ | anyaḥ | ucyate | vām | mahāntau | indrāvaruṇā | mahāvasūitimahāvasū | viśve | devāsaḥ | parame | vi-omani | sam | vām | ojaḥ | vṛṣaṇā | sam | balam | dadhuḥ