Sukta 7.82
युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः । ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥
यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः । ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इन्द्रा॑वरुणा सु॒हवा॑ हवामहे ॥
yuvā́m íd yútsu pṛ́tanāsu váhnayo yuvā́ṃ kṣémasya prasavé mitájñavaḥ | īśānā́ vásva ubháyasya kā́rava índrāvaruṇā suhávā havāmahe ||
It is you two whom the carriers of the flame call in battles; it is you whom the measured knowers invoke for the bringing-forth of peace. Masters of both kinds of wealth, the singers call you, O Indra and Varuṇa, easy to invoke.
यु॒वाम् । इत् । यु॒त्ऽसु । पृत॑नासु । वह्न॑यः । यु॒वाम् । क्षेम॑स्य । प्र॒ऽस॒वे । मि॒तऽज्ञ॑वः । ई॒शा॒ना । वस्वः॑ । उ॒भय॑स्य । का॒रवः॑ । इन्द्रा॑वरुणा । सु॒ऽहवा॑ । ह॒वा॒म॒हे॒ ॥युवाम् । इत् । युत्सु । पृतनासु । वह्नयः । युवाम् । क्षेमस्य । प्रसवे । मितज्ञवः । ईशाना । वस्वः । उभयस्य । कारवः । इन्द्रावरुणा । सुहवा । हवामहे ॥yuvām | it | yut-su | pṛtanāsu | vahnayaḥ | yuvām | kṣemasya | pra-save | mita-jñavaḥ | īśānā | vasvaḥ | ubhayasya | kāravaḥ | indrāvaruṇā | su-havā | havāmahe