Sukta 7.79
तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना । यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः ॥
ताव॑दुषो॒ राधो॑ अ॒स्मभ्यं॑ रास्व॒ याव॑त्स्तो॒तृभ्यो॒ अर॑दो गृणा॒ना । यां त्वा॑ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे॑ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे॑रौर्णोः ॥
tā́vad uṣo rā́dho asmábhyaṃ rāsva yā́vat stotṛ́bhyo árado gṛṇānā́ | yā́ṃ tvā jajñúr vṛṣabhásya ráveṇa ví dṛḷhásya dúro ádrer aurṇoḥ ||
O Dawn, give to us that measure of plenitude which you grant to the chanting seers who affirm you; you whom they have known by the Bull’s (Indra’s) cry, when you opened wide the firm-set doors of the rock—releasing the hidden light into manifestation.
ताव॑त् । उषः॑ । राधः॑ । अ॒स्मभ्य॑म् । रा॒स्व॒ । याव॑त् । स्तो॒तृऽभ्यः॑ । अर॑दः । गृ॒णा॒ना । याम् । त्वा॒ । ज॒ज्ञुः । वृ॒ष॒भस्य॑ । रवे॑ण । वि । दृ॒ळ्हस्य॑ । दुरः॑ । अद्रेः॑ । औ॒र्णोः॒ ॥तावत् । उषः । राधः । अस्मभ्यम् । रास्व । यावत् । स्तोतृभ्यः । अरदः । गृणाना । याम् । त्वा । जज्ञुः । वृषभस्य । रवेण । वि । दृळ्हस्य । दुरः । अद्रेः । और्णोः ॥tāvat | uṣaḥ | rādhaḥ | asmabhyam | rāsva | yāvat | stotṛ-bhyaḥ | aradaḥ | gṛṇānā | yām | tvā | jajñuḥ | vṛṣabhasya | raveṇa | vi | dṛḷhasya | duraḥ | adreḥ | aurṇoḥ