Sukta 7.79
देवंदेवं राधसे चोदयन्त्यस्मद्र्यक्सूनृता ईरयन्ती । व्युच्छन्ती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा नः ॥
दे॒वंदे॑वं॒ राध॑से चो॒दय॑न्त्यस्म॒द्र्य॑क्सू॒नृता॑ ई॒रय॑न्ती । व्यु॒च्छन्ती॑ नः स॒नये॒ धियो॑ धा यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
deváṃ-deváṃ rā́dhase codáyanty asmadryàk sūnṛ́tā ī́rayantī | vy-ucchántī naḥ sanáye dhíyo dhā yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
Urging on the god within to its plenitude, sending forth true inspirations toward us, the Dawn, wide-rising, establishes our thoughts for the gaining; may you guard us always with your harmonies of well-being.
दे॒वम्ऽदे॑वम् । राध॑से । चो॒दय॑न्ती । अ॒स्म॒द्र्य॑क् । सू॒नृताः॑ । ई॒रय॑न्ती । वि॒ऽउ॒च्छन्ती॑ । नः॒ । स॒नये॑ । धियः॑ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥देवम्देवम् । राधसे । चोदयन्ती । अस्मद्र्यक् । सूनृताः । ईरयन्ती । विउच्छन्ती । नः । सनये । धियः । धाः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥devam-devam | rādhase | codayantī | asmadryak | sūnṛtāḥ | īrayantī | vi-ucchantī | naḥ | sanaye | dhiyaḥ | dhāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ