Sukta 7.79
व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते । सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥
व्य॑ञ्जते दि॒वो अन्ते॑ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो॑ यतन्ते । सं ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति॑र्यच्छन्ति सवि॒तेव॑ बा॒हू ॥
vy àñjate divó ánteṣv aktū́n víśo ná yuktā́ uṣáso yatante | sáṃ te gā́vas táma ā́ vartayanti jyótir yácchanti savitéva bāhū́ ||
They extend themselves at the ends of heaven’s nights; like yoked peoples the Dawns strive onward. Thy rays (cows of light) turn back the darkness and hold out the light, as Savitṛ stretches forth his arms of impulsion.
वि । अ॒ञ्ज॒ते॒ । दि॒वः । अन्ते॑षु । अ॒क्तून् । विशः॑ । न । युक्ताः॑ । उ॒षसः॑ । य॒त॒न्ते॒ । सम् । ते॒ । गावः॑ । तमः॑ । आ । व॒र्त॒य॒न्ति॒ । ज्योतिः॑ । य॒च्छ॒न्ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ ॥वि । अञ्जते । दिवः । अन्तेषु । अक्तून् । विशः । न । युक्ताः । उषसः । यतन्ते । सम् । ते । गावः । तमः । आ । वर्तयन्ति । ज्योतिः । यच्छन्ति । सविताइव । बाहू इति ॥vi | añjate | divaḥ | anteṣu | aktūn | viśaḥ | na | yuktāḥ | uṣasaḥ | yatante | sam | te | gāvaḥ | tamaḥ | ā | vartayanti | jyotiḥ | yacchanti | savitāiva | bāhū iti