Sukta 7.79
व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती । सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥
व्यु१॒॑षा आ॑वः प॒थ्या॒३॒॑ जना॑नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय॑न्ती । सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ॥
vyuṣā́ āvaḥ pathyā́ janānāṃ páñca kṣitī́r mā́nuṣīr bodháyantī | su-sandṛ́gbhir ukṣábhir bhā́num aśred ví sū́ryo ródasī cákṣasāvaḥ ||
Dawn has expanded the paths for the peoples, awakening the five human tribes. With clear-seeing and powerful rays she has set her light in motion; and the Sun has opened wide the two worlds with his vision.
वि । उ॒षाः । आ॒वः॒ । प॒थ्या॑ । जना॑नाम् । पञ्च॑ । क्षि॒तीः । मानु॑षीः । बो॒धय॑न्ती । सु॒स॒न्दृक्ऽभिः॑ । उ॒क्षऽभिः॑ । भा॒नुम् । अ॒श्रे॒त् । वि । सूर्यः॑ । रोद॑सी॒ इति॑ । चक्ष॑सा । आ॒व॒रित्या॑वः ॥वि । उषाः । आवः । पथ्या । जनानाम् । पञ्च । क्षितीः । मानुषीः । बोधयन्ती । सुसन्दृक्भिः । उक्षभिः । भानुम् । अश्रेत् । वि । सूर्यः । रोदसी इति । चक्षसा । आवरित्यावः ॥vi | uṣāḥ | āvaḥ | pathyā | janānām | pañca | kṣitīḥ | mānuṣīḥ | bodhayantī | susandṛk-bhiḥ | ukṣa-bhiḥ | bhānum | aśret | vi | sūryaḥ | rodasī iti | cakṣasā | āvar ity āvaḥ