Sukta 7.77
अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न आयुः । इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः ॥
अ॒स्मे श्रेष्ठे॑भिर्भा॒नुभि॒र्वि भा॒ह्युषो॑ देवि प्रति॒रन्ती॑ न॒ आयु॑: । इषं॑ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा॑व॒द्रथ॑वच्च॒ राध॑: ॥
asme śreṣṭhebhiḥ bhānubhir ví bhāhy uṣo devi pratirántī na ā́yuḥ | íṣaṃ ca no dádhatī viśva-vāre gomád aśvā́vad rathávat ca rā́dhaḥ ||
In us shine forth with thy most excellent rays, O Dawn, O Goddess, and make our life-force to advance unbroken. Bringing to us the impulsion of right increase, O thou of all desirable riches, set in us the plenitude—luminous rays of knowledge (go-mat), energies of will (aśva-vat), and the moving power of progress (ratha-vat).
अ॒स्मे इति॑ । श्रेष्ठे॑भिः । भा॒नुऽभिः । वि । भा॒हि॒ । उषः॑ । दे॒वि॒ । प्र॒ऽति॒रन्ती॑ । नः॒ । आयुः॑ । इष॑म् । च॒ । नः॒ । दध॑ती । वि॒श्व॒ऽवा॒रे॒ । गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । च॒ । राधः॑ ॥अस्मे इति । श्रेष्ठेभिः । भानुभिः । वि । भाहि । उषः । देवि । प्रतिरन्ती । नः । आयुः । इषम् । च । नः । दधती । विश्ववारे । गोमत् । अश्ववत् । रथवत् । च । राधः ॥asme iti | śreṣṭhebhiḥ | bhānu-bhiḥ | vi | bhāhi | uṣaḥ | devi | pra-tirantī | naḥ | āyuḥ | iṣam | ca | naḥ | dadhatī | viśva-vāre | go--mat | aśva-vat | ratha-vat | ca | rādhaḥ