Sukta 7.77
यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः । सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा नः ॥
यां त्वा॑ दिवो दुहितर्व॒र्धय॒न्त्युष॑: सुजाते म॒तिभि॒र्वसि॑ष्ठाः । सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हन्तं॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
yā́ṃ tvā divó duhitár vardháyanty uṣaḥ sujāte matíbhir vasiṣṭhāḥ | sā́smā́su dhā rayím ṛṣváṃ bṛhántaṃ yūyáṃ pāta svastíbhíḥ sádā naḥ ||
O Dawn, well-born Daughter of Heaven, whom the Vasiṣṭhas increase by their illumined thoughts—do thou establish in us a lofty and vast plenitude of being (rayi). And may you Powers guard us always with states of well-being.
यान् । त्वा॒ । दि॒वः॒ । दु॒हि॒तः॒ । व॒र्धय॑न्ति । उषः॑ । सु॒ऽजा॒ते॒ । म॒तिऽभिः । वसि॑ष्ठाः । सा । अ॒स्मासु॑ । धाः॒ । र॒यिम् । ऋ॒ष्वम् । बृ॒हन्त॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥यान् । त्वा । दिवः । दुहितः । वर्धयन्ति । उषः । सुजाते । मतिभिः । वसिष्ठाः । सा । अस्मासु । धाः । रयिम् । ऋष्वम् । बृहन्तम् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥yān | tvā | divaḥ | duhitaḥ | vardhayanti | uṣaḥ | su-jāte | mati-bhiḥ | vasiṣṭhāḥ | sā | asmāsu | dhāḥ | rayim | ṛṣvam | bṛhantam | yūyam | pāta | svasti-bhiḥ | sadā | naḥ