Sukta 7.77
देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् । उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥
दे॒वानां॒ चक्षु॑: सु॒भगा॒ वह॑न्ती श्वे॒तं नय॑न्ती सु॒दृशी॑क॒मश्व॑म् । उ॒षा अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू॑ता ॥
devā́nāṃ cákṣuḥ su-bhágā váhantī śvetáṃ náyantī su-dṛ́śīkam áśvam | uṣā́ adarśi raśmíbhir vyàktā citrā́maghā víśvam ánu prábhūtā ||
Carrying the eye of the gods, the fortunate Dawn leads the white, fair-seeing steed. Uṣas is seen, her rays clearly spread out; rich in varied gifts, she becomes powerful over all that follows.
दे॒वाना॑म् । चक्षुः॑ । सु॒ऽभगा॑ । वह॑न्ती । श्वे॒तम् । नय॑न्ती । सु॒ऽदृशी॑कम् । अश्व॑म् । उ॒षाः । अ॒द॒र्शि॒ । र॒श्मिऽभिः । विऽअ॑क्ता । चि॒त्रऽम॑घा । विश्व॑म् । अनु॑ । प्रऽभू॑ता ॥देवानाम् । चक्षुः । सुभगा । वहन्ती । श्वेतम् । नयन्ती । सुदृशीकम् । अश्वम् । उषाः । अदर्शि । रश्मिभिः । विअक्ता । चित्रमघा । विश्वम् । अनु । प्रभूता ॥devānām | cakṣuḥ | su-bhagā | vahantī | śvetam | nayantī | su-dṛśīkam | aśvam | uṣāḥ | adarśi | raśmi-bhiḥ | vi-aktā | citra-maghā | viśvam | anu | pra-bhūtā