Sukta 7.77
विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् । हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि ॥
विश्वं॑ प्रती॒ची स॒प्रथा॒ उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् । हिर॑ण्यवर्णा सु॒दृशी॑कसंदृ॒ग्गवां॑ मा॒ता ने॒त्र्यह्ना॑मरोचि ॥
víśvaṃ pratī́cī sa-práthā úd asthād ruśádvāso bíbhratī śukrám aśvait | híraṇyavarṇā su-dṛ́śīka-sandṛ́g gavā́ṃ mātā́ netry áhnām aroci ||
Turning toward us, she has risen wide over all, wearing a shining robe, bright and white. Golden-hued, beautiful to behold, she shines forth—the Mother of the rays and the leader of the days.
विश्व॑म् । प्र॒ती॒ची । स॒ऽप्रथाः॑ । उत् । अ॒स्था॒त् । रुश॑त् । वासः॑ । बिभ्र॑ती । शु॒क्रम् । अ॒श्वै॒त् । हिर॑ण्यऽवर्णा । सु॒दृशी॑कऽसन्दृक् । गवा॑म् । मा॒ता । ने॒त्री । अह्ना॑म् । अ॒रो॒चि॒ ॥विश्वम् । प्रतीची । सप्रथाः । उत् । अस्थात् । रुशत् । वासः । बिभ्रती । शुक्रम् । अश्वैत् । हिरण्यवर्णा । सुदृशीकसन्दृक् । गवाम् । माता । नेत्री । अह्नाम् । अरोचि ॥viśvam | pratīcī | sa-prathāḥ | ut | asthāt | ruśat | vāsaḥ | bibhratī | śukram | aśvait | hiraṇya-varṇā | sudṛśīka-sandṛk | gavām | mātā | netrī | ahnām | aroci