Sukta 7.77
उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै । अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ॥
उपो॑ रुरुचे युव॒तिर्न योषा॒ विश्वं॑ जी॒वं प्र॑सु॒वन्ती॑ च॒रायै॑ । अभू॑द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां॑सि ॥
úpo ruruce yuvatír ná yoṣā́ víśvaṃ jīváṃ pra-suvántī carā́yai | abhūd agníḥ samídhe mā́nuṣāṇām ákar jyótir bā́dhamānā támāṃsi ||
Dawn has shone forth like a young woman, bringing all living beings into forward movement. Agni comes to be for the kindling of humans; he makes the light, driving away the darknesses.
उपो॒ इति॑ । रु॒रु॒चे॒ । यु॒व॒तिः । न । योषा॑ । विश्व॑म् । जी॒वम् । प्र॒ऽसु॒वन्ती॑ । च॒रायै॑ । अभू॑त् । अ॒ग्निः । स॒म्ऽइधे॑ । मानु॑षाणाम् । अकः॑ । ज्योतिः॑ । बाध॑माना । तमां॑सि ॥उपो इति । रुरुचे । युवतिः । न । योषा । विश्वम् । जीवम् । प्रसुवन्ती । चरायै । अभूत् । अग्निः । सम्इधे । मानुषाणाम् । अकः । ज्योतिः । बाधमाना । तमांसि ॥upo iti | ruruce | yuvatiḥ | na | yoṣā | viśvam | jīvam | pra-suvantī | carāyai | abhūt | agniḥ | sam-idhe | mānuṣāṇām | akaḥ | jyotiḥ | bādhamānā | tamāṃsi