Sukta 7.76
प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः । गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥
प्रति॑ त्वा॒ स्तोमै॑रीळते॒ वसि॑ष्ठा उष॒र्बुध॑: सुभगे तुष्टु॒वांस॑: । गवां॑ ने॒त्री वाज॑पत्नी न उ॒च्छोष॑: सुजाते प्रथ॒मा ज॑रस्व ॥
práti tvā stómair īḷate vásiṣṭhā uṣár-budhaḥ su-bhage tuṣṭuvā́ṃsaḥ | gavā́ṃ netrī́ vā́ja-patnī na ucchóṣaḥ sujāte prathamā́ jarasva ||
The Vasiṣṭhas, awakened with the Dawn, adore you with hymns, O fortunate one. Leader of the rays of Light, spouse of plenitude of force, rise for us, well-born Dawn—become manifest as the first.
प्रति॑ । त्वा॒ । स्तोमैः॑ । ई॒ळ॒ते॒ । वसि॑ष्ठाः । उ॒षः॒ऽबुधः॑ । सु॒ऽभ॒गे॒ । तु॒स्तु॒ऽवांसः॑ । गवा॑म् । ने॒त्री । वाज॑ऽपत्नी । नः॒ । उ॒च्छ॒ । उषः॑ । सु॒ऽजा॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ॥प्रति । त्वा । स्तोमैः । ईळते । वसिष्ठाः । उषःबुधः । सुभगे । तुस्तुवांसः । गवाम् । नेत्री । वाजपत्नी । नः । उच्छ । उषः । सुजाते । प्रथमा । जरस्व ॥prati | tvā | stomaiḥ | īḷate | vasiṣṭhāḥ | uṣaḥ-budhaḥ | su-bhage | tustu-vāṃsaḥ | gavām | netrī | vāja-patnī | naḥ | uccha | uṣaḥ | su-jāte | prathamā | jarasva