Sukta 7.76
समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते । ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥
स॒मा॒न ऊ॒र्वे अधि॒ संग॑तास॒: सं जा॑नते॒ न य॑तन्ते मि॒थस्ते । ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ॥
samāná ūrve ádhi sáṃgatāsaḥ sáṃ jānate ná yatante mithás te | te devā́nāṃ ná minanti vratā́ny ámardhanto vásubhir yā́damānāḥ ||
Gathered on the same wide foundation, they know in unity and do not strive against one another. They do not violate the divine laws; strengthened, they advance with the powers of essential wealth.
स॒मा॒ने । ऊ॒र्वे । अधि॑ । सम्ऽग॑तासः । सम् । जा॒न॒ते॒ । न । य॒त॒न्ते॒ । मि॒थः । ते । ते । दे॒वाना॑म् । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । अम॑र्धन्तः । वसु॑ऽभिः । याद॑मानाः ॥समाने । ऊर्वे । अधि । सम्गतासः । सम् । जानते । न । यतन्ते । मिथः । ते । ते । देवानाम् । न । मिनन्ति । व्रतानि । अमर्धन्तः । वसुभिः । यादमानाः ॥samāne | ūrve | adhi | sam-gatāsaḥ | sam | jānate | na | yatante | mithaḥ | te | te | devānām | na | minanti | vratāni | amardhantaḥ | vasu-bhiḥ | yādamānāḥ