Sukta 7.76
एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः । दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥
ए॒षा ने॒त्री राध॑सः सू॒नृता॑नामु॒षा उ॒च्छन्ती॑ रिभ्यत॒॒ वसि॑ष्ठैः । दी॒र्घ॒श्रुतं॑ र॒यिम॒स्मे दधा॑ना यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
eṣā́ netrī́ rā́dhasaḥ sūnṛ́tānām uṣā́ ucchántī ribhyate vásiṣṭhaiḥ | dīrghá-śrútaṃ rayím asmè dádhānā yūyáṃ pāta svastíbhíḥ sádā naḥ ||
This Dawn, the leader of riches and of luminous true utterances, rising, is hymned by the Vasiṣṭhas. Bringing to us a wealth of far-reaching renown—may you protect us always with your harmonies of well-being.
ए॒षा । ने॒त्री । राध॑सः । सू॒नृता॑नाम् । उ॒षाः । उ॒च्छन्ती॑ । रि॒भ्य॒ते॒ । वसि॑ष्ठैः । दी॒र्घ॒ऽश्रुत॑म् । र॒यिम् । अ॒स्मे इति॑ । दधा॑ना । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एषा । नेत्री । राधसः । सूनृतानाम् । उषाः । उच्छन्ती । रिभ्यते । वसिष्ठैः । दीर्घश्रुतम् । रयिम् । अस्मे इति । दधाना । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥eṣā | netrī | rādhasaḥ | sūnṛtānām | uṣāḥ | ucchantī | ribhyate | vasiṣṭhaiḥ | dīrgha-śrutam | rayim | asme iti | dadhānā | yūyam | pāta | svasti-bhiḥ | sadā | naḥ